Sukta 9.98
परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण । यो देवान्विश्वाँ इत्परि मदेन सह गच्छति ॥
परि॒ त्यं ह॑र्य॒तं हरिं॑ ब॒भ्रुं पु॑नन्ति॒ वारे॑ण । यो दे॒वान्विश्वाँ॒ इत्परि॒ मदे॑न स॒ह गच्छ॑ति ॥
pári tyáṃ haryatáṃ háriṃ babhrúṃ punanti vā́reṇa | yó devā́n víśvāṃ ít pári mádena sahá gácchati ||
They cleanse all around that beloved tawny Soma, the golden-brown one, with the purifying water; he who, by the ecstasy of his delight, moves encompassing all the gods and goes with them in union.
परि॑ । त्यम् । ह॒र्य॒तम् । हरि॑म् । ब॒भ्रुम् । पु॒न॒न्ति॒ । वारे॑ण । यः । दे॒वान् । विश्वा॑न् । इत् । परि॑ । मदे॑न । स॒ह । गच्छ॑ति ॥परि । त्यम् । हर्यतम् । हरिम् । बभ्रुम् । पुनन्ति । वारेण । यः । देवान् । विश्वान् । इत् । परि । मदेन । सह । गच्छति ॥pari | tyam | haryatam | harim | babhrum | punanti | vāreṇa | yaḥ | devān | viśvān | it | pari | madena | saha | gacchati