Sukta 9.98
परि ष्य सुवानो अव्ययं रथे न वर्माव्यत । इन्दुरभि द्रुणा हितो हियानो धाराभिरक्षाः ॥
परि॒ ष्य सु॑वा॒नो अ॒व्ययं॒ रथे॒ न वर्मा॑व्यत । इन्दु॑र॒भि द्रुणा॑ हि॒तो हि॑या॒नो धारा॑भिरक्षाः ॥
pári ṣyá suvāná avyáyaṃ ráthe ná vármāvyata | índur abhí drū́ṇā hitó hiyānó dhā́rābhir akṣāḥ ||
Being pressed, he wraps himself in the woolen covering like armor upon a chariot; Indu, set upon the wooden vats, hastens and streams out in his currents.
परि॑ । स्यः । सु॒वा॒नः । अ॒व्यय॑म् । रथे॑ । न । वर्म॑ । अ॒व्य॒त॒ । इन्दुः॑ । अ॒भि । द्रूणा॑ । हि॒तः । हि॒या॒नः । धारा॑भिः । अ॒क्षा॒रिति॑ ॥परि । स्यः । सुवानः । अव्ययम् । रथे । न । वर्म । अव्यत । इन्दुः । अभि । द्रूणा । हितः । हियानः । धाराभिः । अक्षारिति ॥pari | syaḥ | suvānaḥ | avyayam | rathe | na | varma | avyata | induḥ | abhi | drūṇā | hitaḥ | hiyānaḥ | dhārābhiḥ | akṣāriti