Sukta 9.98
परि ष्य सुवानो अक्षा इन्दुरव्ये मदच्युतः । धारा य ऊर्ध्वो अध्वरे भ्राजा नैति गव्ययुः ॥
परि॒ ष्य सु॑वा॒नो अ॑क्षा॒ इन्दु॒रव्ये॒ मद॑च्युतः । धारा॒ य ऊ॒र्ध्वो अ॑ध्व॒रे भ्रा॒जा नैति॑ गव्य॒युः ॥
pári ṣyá suvāná akṣā índur avyé máda-cyutaḥ | dhā́rā yá ūrdhvó adhvaré bhrā́jā ná eti gavyayúḥ ||
Pressed, Indu streams through the wool, his rapture not spilling away. The stream that rises upward in the rite goes like a shining one, seeking the luminous herds of light.
परि॑ । स्यः । सु॒वा॒नः । अ॒क्षा॒रिति॑ । इन्दुः॑ । अव्ये॑ । मद॑ऽच्युतः । धारा॑ । यः । ऊ॒र्ध्वः । अ॒ध्व॒रे । भ्रा॒जा । न । एति॑ । ग॒व्य॒ऽयुः ॥परि । स्यः । सुवानः । अक्षारिति । इन्दुः । अव्ये । मदच्युतः । धारा । यः । ऊर्ध्वः । अध्वरे । भ्राजा । न । एति । गव्ययुः ॥pari | syaḥ | suvānaḥ | akṣāriti | induḥ | avye | mada-cyutaḥ | dhārā | yaḥ | ūrdhvaḥ | adhvare | bhrājā | na | eti | gavya-yuḥ