Sukta 9.97
प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति । महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन् ॥
प्र काव्य॑मु॒शने॑व ब्रुवा॒णो दे॒वो दे॒वानां॒ जनि॑मा विवक्ति । महि॑व्रत॒: शुचि॑बन्धुः पाव॒कः प॒दा व॑रा॒हो अ॒भ्ये॑ति॒ रेभ॑न् ॥
prá kā́vyam uśánā-iva bruvāṇó devó devā́nāṃ jánimā vivakti | mahí-vrataḥ śúci-bandhuḥ pāvakáḥ padā́ varā́ho abhí eti rébhan ||
He speaks the inspired word like Uśanā; the God reveals the births of the Gods. Great in will, kin to the pure, the purifier—chanting—moves forward like a boar with his step, breaking through to the goal.
प्र । काव्य॑म् । उ॒शना॑ऽइव । ब्रु॒वा॒णः । दे॒वः । दे॒वाना॑म् । जनि॑म । वि॒व॒क्ति॒ । महि॑ऽव्रतः । शुचि॑ऽबन्धुः । पा॒व॒कः । प॒दा । व॒रा॒हः । अ॒भि । ए॒ति॒ । रेभ॑न् ॥प्र । काव्यम् । उशनाइव । ब्रुवाणः । देवः । देवानाम् । जनिम । विवक्ति । महिव्रतः । शुचिबन्धुः । पावकः । पदा । वराहः । अभि । एति । रेभन् ॥pra | kāvyam | uśanā-iva | bruvāṇaḥ | devaḥ | devānām | janima | vivakti | mahi-vrataḥ | śuci-bandhuḥ | pāvakaḥ | padā | varāhaḥ | abhi | eti | rebhan