Sukta 9.97
स्तोत्रे राये हरिरर्षा पुनान इन्द्रं मदो गच्छतु ते भराय । देवैर्याहि सरथं राधो अच्छा यूयं पात स्वस्तिभिः सदा नः ॥
स्तो॒त्रे रा॒ये हरि॑रर्षा पुना॒न इन्द्रं॒ मदो॑ गच्छतु ते॒ भरा॑य । दे॒वैर्या॑हि स॒रथं॒ राधो॒ अच्छा॑ यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
stótre rā́ye hárir arṣā punāná índraṃ mádo gacchatu te bhárāya | deváir yāhi sa-ráthaṃ rā́dho ácchā yūyáṃ pāta svastí-bhiḥ sadā́ naḥ ||
For the hymn and for plenitude, O tawny one, stream on as you purify; let your ecstasy go to Indra for his bearing of power. Go with the Gods in one chariot toward the gift of delight; and may you protect us always with well-being.
स्तो॒त्रे । रा॒ये । हरिः॑ । अ॒र्ष॒ । पु॒ना॒नः । इन्द्र॑म् । मदः॑ । ग॒च्छ॒तु॒ । ते॒ । भरा॑य । दे॒वैः । या॒हि॒ । स॒ऽरथ॑म् । राधः॑ । अच्छ॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥स्तोत्रे । राये । हरिः । अर्ष । पुनानः । इन्द्रम् । मदः । गच्छतु । ते । भराय । देवैः । याहि । सरथम् । राधः । अच्छ । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥stotre | rāye | hariḥ | arṣa | punānaḥ | indram | madaḥ | gacchatu | te | bharāya | devaiḥ | yāhi | sa-ratham | rādhaḥ | accha | yūyam | pāta | svasti-bhiḥ | sadā | naḥ