Sukta 9.97
इन्दुर्देवानामुप सख्यमायन्त्सहस्रधारः पवते मदाय । नृभिः स्तवानो अनु धाम पूर्वमगन्निन्द्रं महते सौभगाय ॥
इन्दु॑र्दे॒वाना॒मुप॑ स॒ख्यमा॒यन्त्स॒हस्र॑धारः पवते॒ मदा॑य । नृभि॒: स्तवा॑नो॒ अनु॒ धाम॒ पूर्व॒मग॒न्निन्द्रं॑ मह॒ते सौभ॑गाय ॥
índur devā́nām úpa sakhyám ā́yan sahásra-dhāraḥ pavate mádāya | nṛ́bhiḥ stávāno ánu dhā́ma pū́rvam ágann índraṃ mahaté saúbhagāya ||
The bright drop comes to the friendship of the Gods; thousand-streamed he purifies himself for ecstasy. Praised by the strong ones, he goes according to the ancient stations and reaches Indra for a great felicity.
इन्दुः॑ । दे॒वाना॑म् । उप॑ । स॒ख्यम् । आ॒यन् । स॒हस्र॑ऽधारः । प॒व॒ते॒ । मदा॑य । नृऽभिः॑ । स्तवा॑नः । अनु॑ । धाम॑ । पूर्व॑म् । अग॑न् । इन्द्र॑म् । म॒ह॒ते । सौभ॑गाय ॥इन्दुः । देवानाम् । उप । सख्यम् । आयन् । सहस्रधारः । पवते । मदाय । नृभिः । स्तवानः । अनु । धाम । पूर्वम् । अगन् । इन्द्रम् । महते । सौभगाय ॥induḥ | devānām | upa | sakhyam | āyan | sahasra-dhāraḥ | pavate | madāya | nṛ-bhiḥ | stavānaḥ | anu | dhāma | pūrvam | agan | indram | mahate | saubhagāya