Sukta 9.97
एष विश्ववित्पवते मनीषी सोमो विश्वस्य भुवनस्य राजा । द्रप्साँ ईरयन्विदथेष्विन्दुर्वि वारमव्यं समयाति याति ॥
ए॒ष वि॑श्व॒वित्प॑वते मनी॒षी सोमो॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ । द्र॒प्साँ ई॒रय॑न्वि॒दथे॒ष्विन्दु॒र्वि वार॒मव्यं॑ स॒मयाति॑ याति ॥
eṣá viśva-vít pavate manīṣī sómo viśvásya bhúvanasya rājā | drapsā́ṃ īráyan vidátheṣv índur ví vā́ram avyaṃ samayā́ ati yāti ||
This Soma, the knower of the whole, streams forth with discerning will; he is king of all becoming. Sending out his luminous drops in the assemblies, Indu passes beyond, and also together with, the woolen filter—mastering the gates of release.
ए॒षः । वि॒श्व॒ऽवित् । प॒व॒ते॒ । म॒नी॒षी । सोमः॑ । विश्व॑स्य । भुव॑नस्य । राजा॑ । द्र॒प्सान् । ई॒रय॑न् । वि॒दथे॑षु । इन्दुः॑ । वि । वार॑म् । अव्य॑म् । स॒मया॑ । अति॑ । या॒ति॒ ॥एषः । विश्ववित् । पवते । मनीषी । सोमः । विश्वस्य । भुवनस्य । राजा । द्रप्सान् । ईरयन् । विदथेषु । इन्दुः । वि । वारम् । अव्यम् । समया । अति । याति ॥eṣaḥ | viśva-vit | pavate | manīṣī | somaḥ | viśvasya | bhuvanasya | rājā | drapsān | īrayan | vidatheṣu | induḥ | vi | vāram | avyam | samayā | ati | yāti