Sukta 9.97
इन्दुं रिहन्ति महिषा अदब्धाः पदे रेभन्ति कवयो न गृध्राः । हिन्वन्ति धीरा दशभिः क्षिपाभिः समञ्जते रूपमपां रसेन ॥
इन्दुं॑ रिहन्ति महि॒षा अद॑ब्धाः प॒दे रे॑भन्ति क॒वयो॒ न गृध्रा॑: । हि॒न्वन्ति॒ धीरा॑ द॒शभि॒: क्षिपा॑भि॒: सम॑ञ्जते रू॒पम॒पां रसे॑न ॥
índuṃ rihanti mahiṣā́ adabdhāḥ padé rebhanti kaváyo ná gṛ́dhrāḥ | hinvánti dhī́rā daśábhiḥ kṣípābhiḥ sám añjate rū́pam apā́ṃ rásena ||
The strong, unbetrayed powers lick up the bright Indu; the seers cry out at the step like eager birds of vision. The steadfast ones impel him with ten swift strokes; they anoint his form with the sap of the waters.
इन्दु॑म् । रि॒ह॒न्ति॒ । म॒हि॒षाः । अद॑ब्धाः । प॒दे । रे॒भ॒न्ति॒ । क॒वयः॑ । न । गृध्राः॑ । हि॒न्वन्ति॑ । धीराः॑ । द॒शऽभिः॑ । क्षिपा॑भिः । सम् । अ॒ञ्ज॒ते॒ । रू॒पम् । अ॒पाम् । रसे॑न ॥इन्दुम् । रिहन्ति । महिषाः । अदब्धाः । पदे । रेभन्ति । कवयः । न । गृध्राः । हिन्वन्ति । धीराः । दशभिः । क्षिपाभिः । सम् । अञ्जते । रूपम् । अपाम् । रसेन ॥indum | rihanti | mahiṣāḥ | adabdhāḥ | pade | rebhanti | kavayaḥ | na | gṛdhrāḥ | hinvanti | dhīrāḥ | daśa-bhiḥ | kṣipābhiḥ | sam | āñjate | rūpam | apām | rasena