Sukta 9.97
महीमे अस्य वृषनाम शूषे माँश्चत्वे वा पृशने वा वधत्रे । अस्वापयन्निगुतः स्नेहयच्चापामित्राँ अपाचितो अचेतः ॥
मही॒मे अ॑स्य॒ वृष॒नाम॑ शू॒षे माँश्च॑त्वे वा॒ पृश॑ने वा॒ वध॑त्रे । अस्वा॑पयन्नि॒गुत॑: स्ने॒हय॒च्चापा॒मित्राँ॒ अपा॒चितो॑ अचे॒तः ॥
mahī́me asyá vṛ́ṣanā́ma śūṣé māṃścátve vā́ pṛ́śane vā́ vádhatre | asvā́payann nigutáḥ snéhayać cā́pā́mitrā́n apā́cito acetáḥ ||
Great indeed are these mighty powers of his force—whether in Māṃścatva or in Pṛśana or in the Vadhatra. He puts to sleep what is hidden, and makes it pliant; and he drives away the enemies—those unperceiving, unthinking movements—casting them out from us.
महि॑ । इ॒मे इति॑ । अ॒स्य॒ । वृष॒नाम॑ । शू॒षे इति॑ । माँश्च॑त्वे । वा॒ । पृश॑ने । वा॒ । वध॑त्रे॒ इति॑ । अस्वा॑पयत् । नि॒ऽगुतः॑ । स्ने॒हय॑त् । च॒ । अप॑ । अ॒मित्रा॑न् । अप॑ । अ॒चितः॑ । अ॒च॒ । इ॒तः ॥महि । इमे इति । अस्य । वृषनाम । शूषे इति । माँश्चत्वे । वा । पृशने । वा । वधत्रे इति । अस्वापयत् । निगुतः । स्नेहयत् । च । अप । अमित्रान् । अप । अचितः । अच । इतः ॥mahi | ime iti | asya | vṛṣanāma | śūṣe iti | māṃścatve | vā | pṛśane | vā | vadhatreiti | asvāpayat | ni-gutaḥ | snehayat | ca | apa | amitrān | apa | acitaḥ | aca | itaḥ