Sukta 9.97
अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः । अभि येन द्रविणमश्नवामाभ्यार्षेयं जमदग्निवन्नः ॥
अ॒भी नो॑ अर्ष दि॒व्या वसू॑न्य॒भि विश्वा॒ पार्थि॑वा पू॒यमा॑नः । अ॒भि येन॒ द्रवि॑णम॒श्नवा॑मा॒भ्या॑र्षे॒यं ज॑मदग्नि॒वन्न॑: ॥
abhī́ nó arṣa divyā́ vásūny abhí víśvā pārthívā pūyámānaḥ | abhí yéna dráviṇam aśnávāmā́bhy ārṣéyaṃ jamadagní-ván naḥ ||
Flow toward us with the heavenly riches; flow with all the earthly plenitudes, O purifying one. Flow with that by which we may attain the true substance of gain; flow to us with the seer-heritage, as Jamadagni’s line—so our being may inherit the inspired power.
अ॒भि । नः॒ । अ॒र्ष॒ । दि॒व्या । वसू॑नि । अ॒भि । विश्वा॑ । पार्थि॑वा । पू॒यमा॑नः । अ॒भि । येन॑ । द्रवि॑णम् । अ॒श्नवा॑म । अ॒भि । आ॒र्षे॒यम् । ज॒म॒द॒ग्नि॒ऽवत् । नः॒ ॥अभि । नः । अर्ष । दिव्या । वसूनि । अभि । विश्वा । पार्थिवा । पूयमानः । अभि । येन । द्रविणम् । अश्नवाम । अभि । आर्षेयम् । जमदग्निवत् । नः ॥abhi | naḥ | arṣa | divyā | vasūni | abhi | viśvā | pārthivā | pūyamānaḥ | abhi | yena | draviṇam | aśnavāma | abhi | ārṣeyam | jamadagni-vat | naḥ