Sukta 9.97
अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः । अभि चन्द्रा भर्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम ॥
अ॒भि वस्त्रा॑ सुवस॒नान्य॑र्षा॒भि धे॒नूः सु॒दुघा॑: पू॒यमा॑नः । अ॒भि च॒न्द्रा भर्त॑वे नो॒ हिर॑ण्या॒भ्यश्वा॑न्र॒थिनो॑ देव सोम ॥
abhí vástrā suvasanā́ny arṣā́bhí dhenū́ḥ sudúghāḥ pūyámānaḥ | abhí candrā́ bhártave no híraṇyā́bhy áśvān rathíno deva soma ||
Flow toward the bright robes, the well-clad powers; flow toward the milch-cows that yield richly, while purifying thyself. Flow toward the shining treasures for our bearing, toward the golden plenitudes; and toward the swift horses and chariot-strengths, O divine Soma—granting the outer forms that support the inner advance.
अ॒भि । वस्त्रा॑ । सु॒ऽव॒स॒नानि॑ । अ॒र्ष॒ । अ॒भि । धे॒नूः । सु॒ऽदुघाः॑ । पू॒यमा॑नः । अ॒भि । च॒न्द्रा । भर्त॑वे । नः॒ । हिर॑ण्या । अ॒भि । अश्वा॑न् । र॒थिनः॑ । दे॒व॒ । सो॒म॒ ॥अभि । वस्त्रा । सुवसनानि । अर्ष । अभि । धेनूः । सुदुघाः । पूयमानः । अभि । चन्द्रा । भर्तवे । नः । हिरण्या । अभि । अश्वान् । रथिनः । देव । सोम ॥abhi | vastrā | su-vasanāni | arṣa | abhi | dhenūḥ | su-dughāḥ | pūyamānaḥ | abhi | candrā | bhartave | naḥ | hiraṇyā | abhi | aśvān | rathinaḥ | deva | soma