Sukta 9.97
अभि वायुं वीत्यर्षा गृणानोऽभि मित्रावरुणा पूयमानः । अभी नरं धीजवनं रथेष्ठामभीन्द्रं वृषणं वज्रबाहुम् ॥
अ॒भि वा॒युं वी॒त्य॑र्षा गृणा॒नो॒३॒॑ऽभि मि॒त्रावरु॑णा पू॒यमा॑नः । अ॒भी नरं॑ धी॒जव॑नं रथे॒ष्ठाम॒भीन्द्रं॒ वृष॑णं॒ वज्र॑बाहुम् ॥
abhí vāyúṃ vītī́ arṣā gṛṇānó ’bhí mitrā́varuṇā pūyámānaḥ | abhī́ náraṃ dhī-jávanaṃ rathe-sthā́m abhī́ndraṃ vṛ́ṣaṇaṃ vájra-bāhum ||
Flow forth toward Vāyu, to the feast of inspiration, while chanting—flow toward Mitra and Varuṇa as thou purifiest thyself. Flow toward Nara, swift with the driving thought, firm on the chariot-path; flow toward Indra, the strong Bull with the thunder-arm—so all the powers of right movement may be gathered in us.
अ॒भि । वा॒युम् । वी॒ती । अ॒र्ष॒ । गृ॒णा॒नः । अ॒भि । मि॒त्रावरु॑णा । पू॒यमा॑नः । अ॒भि । नर॑म् । धी॒ऽजव॑नम् । र॒थे॒ऽस्थाम् । अ॒भि । इन्द्र॑म् । वृष॑णम् । वज्र॑ऽबाहुम् ॥अभि । वायुम् । वीती । अर्ष । गृणानः । अभि । मित्रावरुणा । पूयमानः । अभि । नरम् । धीजवनम् । रथेस्थाम् । अभि । इन्द्रम् । वृषणम् । वज्रबाहुम् ॥abhi | vāyum | vītī | arṣa | gṛṇānaḥ | abhi | mitrāvaruṇā | pūyamānaḥ | abhi | naram | dhī-javanam | rathe-sthām | abhi | indram | vṛṣaṇam | vajra-bāhum