Sukta 9.97
नू नस्त्वं रथिरो देव सोम परि स्रव चम्वोः पूयमानः । अप्सु स्वादिष्ठो मधुमाँ ऋतावा देवो न यः सविता सत्यमन्मा ॥
नू न॒स्त्वं र॑थि॒रो दे॑व सोम॒ परि॑ स्रव च॒म्वो॑: पू॒यमा॑नः । अ॒प्सु स्वादि॑ष्ठो॒ मधु॑माँ ऋ॒तावा॑ दे॒वो न यः स॑वि॒ता स॒त्यम॑न्मा ॥
nū́ nás tvaṃ rathiró deva soma pári srava camvóḥ pūyámānaḥ | apsú svādiṣṭhó mádhumāṃ ṛtā́vā devó ná yáḥ savitā́ satyá-manmā ||
Now for us, O divine Soma, chariot-moving, flow all around into the bowls, purifying thyself. In the waters thou art most sweet, full of honeyed delight, a knower of the Right; like Savitṛ, a god of true intention, thou awakenest the truth-mind in us.
नु । नः॒ । त्वम् । र॒थि॒रः । दे॒व॒ । सो॒म॒ । परि॑ । स्र॒व॒ । च॒म्वोः॑ । पू॒यमा॑नः । अ॒प्ऽसु । स्वादि॑ष्ठः । मधु॑ऽमान् । ऋ॒तऽवा॑ । दे॒वः । न । यः । स॒वि॒ता । स॒त्यऽम॑न्मा ॥नु । नः । त्वम् । रथिरः । देव । सोम । परि । स्रव । चम्वोः । पूयमानः । अप्सु । स्वादिष्ठः । मधुमान् । ऋतवा । देवः । न । यः । सविता । सत्यमन्मा ॥nu | naḥ | tvam | rathiraḥ | deva | soma | pari | srava | camvoḥ | pūyamānaḥ | ap-su | svādiṣṭhaḥ | madhu-mān | ṛta-vā | devaḥ | na | yaḥ | savitā | satya-manmā