Sukta 9.97
एष प्रत्नेन वयसा पुनानस्तिरो वर्पांसि दुहितुर्दधानः । वसानः शर्म त्रिवरूथमप्सु होतेव याति समनेषु रेभन् ॥
ए॒ष प्र॒त्नेन॒ वय॑सा पुना॒नस्ति॒रो वर्पां॑सि दुहि॒तुर्दधा॑नः । वसा॑न॒: शर्म॑ त्रि॒वरू॑थम॒प्सु होते॑व याति॒ सम॑नेषु॒ रेभ॑न् ॥
eṣá pratnéna váyasā punānáḥ tiró varpā́ṃsi duhitúr dádhānaḥ | vásānaḥ śárma tri-varū́tham apsú hótā-iva yāti sámanēṣu rébhan ||
This Soma, purifying himself with his ancient vitality, puts on the forms (powers) of the Daughter (the Waters). Clothing himself in a triple-protecting peace within the waters, he moves among the gatherings like a priest—chanting, establishing harmony in the assemblies of the being.
ए॒षः । प्र॒त्नेन॑ । वय॑सा । पु॒ना॒नः । ति॒रः । वर्पां॑सि । दु॒हि॒तुः । दधा॑नः । वसा॑नः । शर्म॑ । त्रि॒ऽवरू॑थम् । अ॒प्ऽसु । होता॑ऽइव । या॒ति॒ । सम॑नेषु । रेभ॑न् ॥एषः । प्रत्नेन । वयसा । पुनानः । तिरः । वर्पांसि । दुहितुः । दधानः । वसानः । शर्म । त्रिवरूथम् । अप्सु । होताइव । याति । समनेषु । रेभन् ॥eṣaḥ | pratnena | vayasā | punānaḥ | tiraḥ | varpāṃsi | duhituḥ | dadhānaḥ | vasānaḥ | śarma | tri-varūtham | ap-su | hotā-iva | yāti | samaneṣu | rebhan