Sukta 9.97
एष स्य ते पवत इन्द्र सोमश्चमूषु धीर उशते तवस्वान् । स्वर्चक्षा रथिरः सत्यशुष्मः कामो न यो देवयतामसर्जि ॥
ए॒ष स्य ते॑ पवत इन्द्र॒ सोम॑श्च॒मूषु॒ धीर॑ उश॒ते तव॑स्वान् । स्व॑र्चक्षा रथि॒रः स॒त्यशु॑ष्म॒: कामो॒ न यो दे॑वय॒तामस॑र्जि ॥
eṣá syá te pavate indra sómaś camū́ṣu dhī́ra uśaté távasvān | svàr-cakṣā rathiráḥ satyá-śuṣmaḥ kā́mo ná yó devayatā́m asarji ||
This Soma flows for thee, O Indra—wise and eager in the bowls, full of power. He is visioned by the light (sun-eyed), moving like a chariot, with a true and irresistible force; like Desire itself he is released for those who turn godward.
ए॒षः । स्यः । ते॒ । प॒व॒ते॒ । इ॒न्द्र॒ । सोमः॑ । च॒मूषु॑ । धीरः॑ । उ॒श॒ते । तव॑स्वान् । स्वः॑ऽचक्षाः । र॒थि॒रः । स॒त्यऽशु॑ष्मः । कामः॑ । न । यः । दे॒व॒ऽय॒ताम् । अस॑र्जि ॥एषः । स्यः । ते । पवते । इन्द्र । सोमः । चमूषु । धीरः । उशते । तवस्वान् । स्वःचक्षाः । रथिरः । सत्यशुष्मः । कामः । न । यः । देवयताम् । असर्जि ॥eṣaḥ | syaḥ | te | pavate | indra | somaḥ | camūṣu | dhīraḥ | uśate | tavasvān | svaḥ-cakṣāḥ | rathiraḥ | satya-śuṣmaḥ | kāmaḥ | na | yaḥ | deva-yatām | asarji