Sukta 9.97
मध्वः सूदं पवस्व वस्व उत्सं वीरं च न आ पवस्वा भगं च । स्वदस्वेन्द्राय पवमान इन्दो रयिं च न आ पवस्वा समुद्रात् ॥
मध्व॒: सूदं॑ पवस्व॒ वस्व॒ उत्सं॑ वी॒रं च॑ न॒ आ प॑वस्वा॒ भगं॑ च । स्वद॒स्वेन्द्रा॑य॒ पव॑मान इन्दो र॒यिं च॑ न॒ आ प॑वस्वा समु॒द्रात् ॥
mádhvaḥ sū́daṃ pavasva vásva útsaṃ vīráṃ ca na ā́ pavasvā bhágaṃ ca | svadásv índrāya pávamāna indo rayíṃ ca na ā́ pavasvā samudrā́t ||
Purify for us the sweet pressing, the wellspring of riches; purify for us the hero-force and also Bhaga (the distributor of bliss). Become sweet for Indra, O purifying Indu; and purify for us the rayi—fullness of being—from the ocean-depth.
मध्वः॑ । सूद॑म् । प॒व॒स्व॒ । वस्वः॑ । उत्स॑म् । वी॒रम् । च॒ । नः॒ । आ । प॒व॒स्व॒ । भग॑म् । च॒ । स्वद॑स्व । इन्द्रा॑य । पव॑मानः । इ॒न्दो॒ इति॑ । र॒यिम् । च॒ । नः॒ । आ । प॒व॒स्व॒ । स॒मु॒द्रात् ॥मध्वः । सूदम् । पवस्व । वस्वः । उत्सम् । वीरम् । च । नः । आ । पवस्व । भगम् । च । स्वदस्व । इन्द्राय । पवमानः । इन्दो इति । रयिम् । च । नः । आ । पवस्व । समुद्रात् ॥madhvaḥ | sūdam | pavasva | vasvaḥ | utsam | vīram | ca | naḥ | ā | pavasva | bhagam | ca | svadasva | indrāya | pavamānaḥ | indo iti | rayim | ca | naḥ | ā | pavasva | samudrāt