Sukta 9.97
ऋजुः पवस्व वृजिनस्य हन्तापामीवां बाधमानो मृधश्च । अभिश्रीणन्पयः पयसाभि गोनामिन्द्रस्य त्वं तव वयं सखायः ॥
ऋ॒जुः प॑वस्व वृजि॒नस्य॑ ह॒न्तापामी॑वां॒ बाध॑मानो॒ मृध॑श्च । अ॒भि॒श्री॒णन्पय॒: पय॑सा॒भि गोना॒मिन्द्र॑स्य॒ त्वं तव॑ व॒यं सखा॑यः ॥
ṛjúḥ pavasva vṛjinásya hantā́pāmīvā́ṃ bādhamā́nó mṛ́dhaś ca | abhíśrīṇan páyaḥ páyasābhí gónām índrasya tváṃ táva vayáṃ sakhā́yaḥ ||
Flow straight, O Soma, slayer of crookedness, driving away disease and hostile assault. Enrich the milk with milk, increase the rays of illumination; you are Indra’s— and we are your companions.
ऋ॒जुः । प॒व॒स्व॒ । वृ॒जि॒नस्य॑ । ह॒न्ता । अप॑ । अमी॑वाम् । बाध॑मानः । मृधः॑ । च॒ । अ॒भि॒ऽश्री॒णन् । पयः॑ । पय॑सा । अ॒भि । गोना॑म् । इन्द्र॑स्य । त्वम् । तव॑ । व॒यम् । सखा॑यः ॥ऋजुः । पवस्व । वृजिनस्य । हन्ता । अप । अमीवाम् । बाधमानः । मृधः । च । अभिश्रीणन् । पयः । पयसा । अभि । गोनाम् । इन्द्रस्य । त्वम् । तव । वयम् । सखायः ॥ṛjuḥ | pavasva | vṛjinasya | hantā | apa | amīvām | bādhamānaḥ | mṛdhaḥ | ca | abhi-śrīṇan | payaḥ | payasā | abhi | gonām | indrasya | tvam | tava | vayam | sakhāyaḥ