Sukta 9.97
मत्सि वायुमिष्टये राधसे च मत्सि मित्रावरुणा पूयमानः । मत्सि शर्धो मारुतं मत्सि देवान्मत्सि द्यावापृथिवी देव सोम ॥
मत्सि॑ वा॒युमि॒ष्टये॒ राध॑से च॒ मत्सि॑ मि॒त्रावरु॑णा पू॒यमा॑नः । मत्सि॒ शर्धो॒ मारु॑तं॒ मत्सि॑ दे॒वान्मत्सि॒ द्यावा॑पृथि॒वी दे॑व सोम ॥
mátsi vāyúm iṣṭáye rā́dhase ca mátsi mitrā́váruṇā pū́yamānaḥ | mátsi śárdho mārútaṃ mátsi devā́n mátsi dyā́vāpṛthivī́ deva soma ||
Rejoice in Vayu for our seeking and our fulfillment; rejoice in Mitra-Varuna as you are purified. Rejoice in the Marut host, rejoice in the gods; rejoice in Heaven-and-Earth, O divine Soma.
मत्सि॑ । वा॒युम् । इ॒ष्टये॑ । राध॑से । च॒ । मत्सि॑ । मि॒त्रावरु॑णा । पू॒यमा॑नः । मत्सि॑ । शर्धः॑ । मारु॑तम् । मत्सि॑ । दे॒वान् । मत्सि॑ । द्यावा॑पृथि॒वी इति॑ । दे॒व॒ । सो॒म॒ ॥मत्सि । वायुम् । इष्टये । राधसे । च । मत्सि । मित्रावरुणा । पूयमानः । मत्सि । शर्धः । मारुतम् । मत्सि । देवान् । मत्सि । द्यावापृथिवी इति । देव । सोम ॥matsi | vāyum | iṣṭaye | rādhase | ca | matsi | mitrāvaruṇā | pūyamānaḥ | matsi | śardhaḥ | mārutam | matsi | devān | matsi | dyāvāpṛthivī iti | deva | soma