Sukta 9.97
महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् । अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः ॥
म॒हत्तत्सोमो॑ महि॒षश्च॑कारा॒पां यद्गर्भोऽवृ॑णीत दे॒वान् । अद॑धा॒दिन्द्रे॒ पव॑मान॒ ओजोऽज॑नय॒त्सूर्ये॒ ज्योति॒रिन्दु॑: ॥
mahát tát sómo mahiṣáś cakārāpā́ṃ yád gárbho ’vṛṇīta devā́n | ádadhād índre pávamāna ójo ’jánayat sū́rye jyótir índuḥ ||
A great thing Soma the mighty has done: as the embryo of the waters he chose the gods. The purifying one placed strength in Indra; Indu brought forth light in the Sun.
म॒हत् । तत् । सोमः॑ । म॒हि॒षः । च॒का॒र॒ । अ॒पाम् । यत् । गर्भः॑ । अवृ॑णीत । दे॒वान् । अद॑धात् । इन्द्रे॑ । पव॑मानः । ओजः॑ । अज॑नयत् । सूर्ये॑ । ज्योतिः॑ । इन्दुः॑ ॥महत् । तत् । सोमः । महिषः । चकार । अपाम् । यत् । गर्भः । अवृणीत । देवान् । अदधात् । इन्द्रे । पवमानः । ओजः । अजनयत् । सूर्ये । ज्योतिः । इन्दुः ॥mahat | tat | somaḥ | mahiṣaḥ | cakāra | apām | yat | garbhaḥ | avṛṇīta | devān | adadhāt | indre | pavamānaḥ | ojaḥ | ajanayat | sūrye | jyotiḥ | induḥ