Sukta 9.97
अक्रान्त्समुद्रः प्रथमे विधर्मञ्जनयन्प्रजा भुवनस्य राजा । वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे सुवान इन्दुः ॥
अक्रा॑न्त्समु॒द्रः प्र॑थ॒मे विध॑र्मञ्ज॒नय॑न्प्र॒जा भुव॑नस्य॒ राजा॑ । वृषा॑ प॒वित्रे॒ अधि॒ सानो॒ अव्ये॑ बृ॒हत्सोमो॑ वावृधे सुवा॒न इन्दु॑: ॥
ákrānt samudráḥ prathamé vidhárman janáyan prajā́ bhuvánasya rā́jā | vṛ́ṣā pavítre ádhi sā́nó avyé bṛhát sómo vāvṛdhe suvā́na índuḥ ||
The ocean has advanced in the first establishing of the law, bringing forth the creatures, king of becoming. As a bull upon the filter, on the woollen ridge, the vast Soma has grown—Indu, being pressed into birth.
अक्रा॑न् । स॒मु॒द्रः । प्र॒थ॒मे । विऽध॑र्मन् । ज॒नय॑न् । प्र॒ऽजाः । भुव॑नस्य । राजा॑ । वृषा॑ । प॒वित्रे॑ । अधि॑ । सानौ॑ । अव्ये॑ । बृ॒हत् । सोमः॑ । व॒वृ॒धे॒ । सु॒वा॒नः । इन्दुः॑ ॥अक्रान् । समुद्रः । प्रथमे । विधर्मन् । जनयन् । प्रजाः । भुवनस्य । राजा । वृषा । पवित्रे । अधि । सानौ । अव्ये । बृहत् । सोमः । ववृधे । सुवानः । इन्दुः ॥akrān | samudraḥ | prathame | vi-dharman | janayan | pra-jāḥ | bhuvanasya | rājā | vṛṣā | pavitre | adhi | sānau | avye | bṛhat | somaḥ | vavṛdhe | suvānaḥ | induḥ