Sukta 9.97
स वर्धिता वर्धनः पूयमानः सोमो मीढ्वाँ अभि नो ज्योतिषावीत् । येना नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमुष्णन् ॥
स व॑र्धि॒ता वर्ध॑नः पू॒यमा॑न॒: सोमो॑ मी॒ढ्वाँ अ॒भि नो॒ ज्योति॑षावीत् । येना॑ न॒: पूर्वे॑ पि॒तर॑: पद॒ज्ञाः स्व॒र्विदो॑ अ॒भि गा अद्रि॑मु॒ष्णन् ॥
sá vardhitā́ várdhanaḥ pū́yamānaḥ sómo mīḍhvā́ṃ abhí no jyótiṣāvīt | yéna naḥ pū́rve pitáraḥ padájñāḥ svàrvido abhí gā́ ádrim uṣṇán ||
He, increased and increaser, Soma being purified, the bountiful, has come to us with light. By him our ancient Fathers, knowers of the path, finders of the Sun-world, won the Rays (cows) by breaking open the stone.
सः । व॒र्धि॒ता । वर्ध॑नः । पू॒यमा॑नः । सोमः॑ । मी॒ढ्वान् । अ॒भि । नः॒ । ज्योति॑षा । आ॒वी॒त् । येन॑ । नः॒ । पूर्वे॑ । पि॒तरः॑ । प॒द॒ऽज्ञाः । स्वः॒ऽविदः॑ । अ॒भि । गाः । अद्रि॑म् । उ॒ष्णन् ॥सः । वर्धिता । वर्धनः । पूयमानः । सोमः । मीढ्वान् । अभि । नः । ज्योतिषा । आवीत् । येन । नः । पूर्वे । पितरः । पदज्ञाः । स्वःविदः । अभि । गाः । अद्रिम् । उष्णन् ॥saḥ | vardhitā | vardhanaḥ | pūyamānaḥ | somaḥ | mīḍhavān | abhi | naḥ | jyotiṣā | āvīt | yena | naḥ | pūrve | pitaraḥ | pada-jñāḥ | svaḥ-vidaḥ | abhi | gāḥ | adrim | uṣṇan