Sukta 9.97
स पुनान उप सूरे न धातोभे अप्रा रोदसी वि ष आवः । प्रिया चिद्यस्य प्रियसास ऊती स तू धनं कारिणे न प्र यंसत् ॥
स पु॑ना॒न उप॒ सूरे॒ न धातोभे अ॑प्रा॒ रोद॑सी॒ वि ष आ॑वः । प्रि॒या चि॒द्यस्य॑ प्रिय॒सास॑ ऊ॒ती स तू धनं॑ का॒रिणे॒ न प्र यं॑सत् ॥
sá punāná úpa sū́re ná dhātobhé aprā́ ródasī ví ṣá āvaḥ | priyā́ cíd yásya priyasā́sa ūtī́ sá tū́ dhánaṃ kāríṇe ná prá yaṃsat ||
He, purifying, like a founder near the Sun, has spread wide the two worlds, filling them apart. Even what is dear—his dear helpers and protections—he does not withhold; he grants the treasure to the doer of the work.
सः । पु॒ना॒नः । उप॑ । सूरे॑ । न । धाता॑ । उ॒भे इति॑ । अ॒प्राः॒ । रोद॑सी॒ इति॑ । वि । सः । आ॒व॒रित्या॑वः । प्रि॒या । चि॒त् । यस्य॑ । प्रि॒य॒सासः॑ । ऊ॒ती । सः । तु । धन॑म् । का॒रिणे॑ । न । प्र । यं॒स॒त् ॥सः । पुनानः । उप । सूरे । न । धाता । उभे इति । अप्राः । रोदसी इति । वि । सः । आवरित्यावः । प्रिया । चित् । यस्य । प्रियसासः । ऊती । सः । तु । धनम् । कारिणे । न । प्र । यंसत् ॥saḥ | punānaḥ | upa | sūre | na | dhātā | ā | ubhe iti | aprāḥ | rodasī iti | vi | saḥ | āvar ity āvaḥ | priyā | cit | yasya | priyasāsaḥ | ūtī | saḥ | tu | dhanam | kāriṇe | na | pra | yaṃsat