Sukta 9.97
आ जागृविर्विप्र ऋता मतीनां सोमः पुनानो असदच्चमूषु । सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः ॥
आ जागृ॑वि॒र्विप्र॑ ऋ॒ता म॑ती॒नां सोम॑: पुना॒नो अ॑सदच्च॒मूषु॑ । सप॑न्ति॒ यं मि॑थु॒नासो॒ निका॑मा अध्व॒र्यवो॑ रथि॒रास॑: सु॒हस्ता॑: ॥
ā́ jā́gṛvir vípra ṛtā́ matīnā́ṃ sómaḥ punā́nó asadac camū́ṣu | sápanti yáṃ mithunā́so níkāmā adhvaryávo rathirā́saḥ suhástāḥ ||
Awake and vigilant, the seer of the true order of thoughts—Soma, purifying—has sat in the bowls. Him the priests, paired in harmony and intent, speed onward—skilled in the rite, swift as charioteers, with hands that know the work.
आ । जागृ॑विः । विप्रः॑ । ऋ॒ता । म॒ती॒नाम् । सोमः॑ । पु॒ना॒नः । अ॒स॒द॒त् । च॒मूषु॑ । सप॑न्ति । यम् । मि॒थु॒नासः॑ । निऽका॑माः । अ॒ध्व॒र्यवः॑ । र॒थि॒रासः॑ । सु॒ऽहस्ताः॑ ॥आ । जागृविः । विप्रः । ऋता । मतीनाम् । सोमः । पुनानः । असदत् । चमूषु । सपन्ति । यम् । मिथुनासः । निकामाः । अध्वर्यवः । रथिरासः । सुहस्ताः ॥ā | jāgṛviḥ | vipraḥ | ṛtā | matīnām | somaḥ | punānaḥ | asadat | camūṣu | sapanti | yam | mithunāsaḥ | ni-kāmāḥ | adhvaryavaḥ | rathirāsaḥ | su-hastāḥ