Sukta 9.97
सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः । सोमः सुतः पूयते अज्यमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते ॥
सोमं॒ गावो॑ धे॒नवो॑ वावशा॒नाः सोमं॒ विप्रा॑ म॒तिभि॑: पृ॒च्छमा॑नाः । सोम॑: सु॒तः पू॑यते अ॒ज्यमा॑न॒: सोमे॑ अ॒र्कास्त्रि॒ष्टुभ॒: सं न॑वन्ते ॥
sómaṃ gā́vo dhenávo vāvaśānā́ḥ sómaṃ víprā matíbhiḥ pṛcchámānāḥ | sómaḥ sutáḥ pū́yate ájyamānaḥ sóme arkā́s triṣṭúbhaḥ sám navante ||
The Rays (cows) and the fostering powers (milch-kine) cry out for Soma; the illumined seers seek Soma with their thought-movements. Soma, expressed, is purified as he is anointed; in Soma the hymns—Trishtubh measures—press together and become new-born.
सोम॑म् । गावः॑ । धे॒नवः॑ । वा॒व॒शा॒नाः । सोम॑म् । विप्राः॑ । म॒तिऽभिः॑ । पृ॒च्छमा॑नाः । सोमः॑ । सु॒तः । पू॒य॒ते॒ । अ॒ज्यमा॑नः । सोमे॑ । अ॒र्काः । त्रि॒ऽस्तुभः॑ । सम् । न॒व॒न्ते॒ ॥सोमम् । गावः । धेनवः । वावशानाः । सोमम् । विप्राः । मतिभिः । पृच्छमानाः । सोमः । सुतः । पूयते । अज्यमानः । सोमे । अर्काः । त्रिस्तुभः । सम् । नवन्ते ॥somam | gāvaḥ | dhenavaḥ | vāvaśānāḥ | somam | viprāḥ | mati-bhiḥ | pṛcchamānāḥ | somaḥ | sutaḥ | pūyate | ajyamānaḥ | some | arkāḥ | tri-stubhaḥ | sam | navante