Sukta 9.97
दिव्यः सुपर्णोऽव चक्षि सोम पिन्वन्धाराः कर्मणा देववीतौ । एन्दो विश कलशं सोमधानं क्रन्दन्निहि सूर्यस्योप रश्मिम् ॥
दि॒व्यः सु॑प॒र्णोऽव॑ चक्षि सोम॒ पिन्व॒न्धारा॒: कर्म॑णा दे॒ववी॑तौ । एन्दो॑ विश क॒लशं॑ सोम॒धानं॒ क्रन्द॑न्निहि॒ सूर्य॒स्योप॑ र॒श्मिम् ॥
divyáḥ su-parṇó ’vá cakṣi soma pínvan dhā́rāḥ kármaṇā deva-vītā́u | éndo viśa kalaśáṃ soma-dhā́naṃ krándann ihí sū́ryasya úpa raśmím ||
O Soma, the divine fair-winged looks down; swelling the streams by the work in the god-attended rite. O Indu, enter the jar that holds Soma; crying aloud, come to the ray of the Sun—rise into the solar line of illumination.
दि॒व्यः । सु॒ऽप॒र्णः । अव॑ । च॒क्षि॒ । सो॒म॒ । पिन्व॑न् । धाराः॑ । कर्म॑णा । दे॒वऽवी॑तौ । आ । इ॒न्दो॒ इति॑ । वि॒श॒ । क॒लश॑म् । सो॒म॒ऽधान॑म् । क्रन्द॑न् । इ॒हि॒ । सूर्य॑स्य । उप॑ । र॒श्मिम् ॥दिव्यः । सुपर्णः । अव । चक्षि । सोम । पिन्वन् । धाराः । कर्मणा । देववीतौ । आ । इन्दो इति । विश । कलशम् । सोमधानम् । क्रन्दन् । इहि । सूर्यस्य । उप । रश्मिम् ॥divyaḥ | su-parṇaḥ | ava | cakṣi | soma | pinvan | dhārāḥ | karmaṇā | deva-vītau | ā | indo iti | viśa | kalaśam | soma-dhānam | krandan | ihi | sūryasya | upa | raśmim