Sukta 9.97
कनिक्रददनु पन्थामृतस्य शुक्रो वि भास्यमृतस्य धाम । स इन्द्राय पवसे मत्सरवान्हिन्वानो वाचं मतिभिः कवीनाम् ॥
कनि॑क्रद॒दनु॒ पन्था॑मृ॒तस्य॑ शु॒क्रो वि भा॑स्य॒मृत॑स्य॒ धाम॑ । स इन्द्रा॑य पवसे मत्स॒रवा॑न्हिन्वा॒नो वाचं॑ म॒तिभि॑: कवी॒नाम् ॥
kánikradad ánu pánthām ṛtásya śukró ví bhāsy amṛ́tasya dhā́ma | sá índrāya pavase matsará-vān hinvānáḥ vā́caṃ matíbhíḥ kavīnā́m ||
Crying out, you move along the path of the Truth; shining, you blaze forth the home of immortality. For Indra you purify yourself, full of ecstasy, urging the Word with the insights of the seers.
कनि॑क्रदत् । अनु॑ । पन्था॑म् । ऋ॒तस्य॑ । शु॒क्रः । वि । भा॒सि॒ । अ॒मृत॑स्य । धाम॑ । सः । इन्द्रा॑य । प॒व॒से॒ । म॒त्स॒रऽवा॑न् । हि॒न्वा॒नः । वाच॑म् । म॒तिऽभिः॑ । क॒वी॒नाम् ॥कनिक्रदत् । अनु । पन्थाम् । ऋतस्य । शुक्रः । वि । भासि । अमृतस्य । धाम । सः । इन्द्राय । पवसे । मत्सरवान् । हिन्वानः । वाचम् । मतिभिः । कवीनाम् ॥kanikradat | anu | panthām | ṛtasya | śukraḥ | vi | bhāsi | amṛtasya | dhāma | saḥ | indrāya | pavase | matsara-vān | hinvānaḥ | vācam | mati-bhiḥ | kavīnām