Sukta 9.97
शतं धारा देवजाता असृग्रन्त्सहस्रमेनाः कवयो मृजन्ति । इन्दो सनित्रं दिव आ पवस्व पुरएतासि महतो धनस्य ॥
श॒तं धारा॑ दे॒वजा॑ता असृग्रन्त्स॒हस्र॑मेनाः क॒वयो॑ मृजन्ति । इन्दो॑ स॒नित्रं॑ दि॒व आ प॑वस्व पुरए॒तासि॑ मह॒तो धन॑स्य ॥
śatáṃ dhā́rā deva-jā́tā asṛgran sahásram enāḥ kaváyo mṛjanti | índo sanitráṃ divá ā́ pavasva pura-etā́si maható dhánasya ||
A hundred streams, born of the divine, are released; a thousand stains the seers cleanse away. O Indu, purify yourself into the treasury of heaven; you are the forerunner of the great riches of being.
श॒तम् । धाराः॑ । दे॒वऽजा॑ताः । अ॒सृ॒ग्र॒न् । स॒हस्र॑म् । ए॒नाः॒ । क॒वयः॑ । मृ॒ज॒न्ति॒ । इन्दो॒ इति॑ । स॒नित्र॑म् । दि॒वः । आ । प॒व॒स्व॒ । पु॒रः॒ऽए॒ता । अ॒सि॒ । म॒ह॒तः । धन॑स्य ॥शतम् । धाराः । देवजाताः । असृग्रन् । सहस्रम् । एनाः । कवयः । मृजन्ति । इन्दो इति । सनित्रम् । दिवः । आ । पवस्व । पुरःएता । असि । महतः । धनस्य ॥śatam | dhārāḥ | deva-jātāḥ | asṛgran | sahasram | enāḥ | kavayaḥ | mṛjanti | indo iti | sanitram | divaḥ | ā | pavasva | puraḥ-etā | asi | mahataḥ | dhanasya