Sukta 9.97
समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे । अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः ॥
समु॑ प्रि॒यो मृ॑ज्यते॒ सानो॒ अव्ये॑ य॒शस्त॑रो य॒शसां॒ क्षैतो॑ अ॒स्मे । अ॒भि स्व॑र॒ धन्वा॑ पू॒यमा॑नो यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
sám u priyó mṛ́jyate sā́nāv ávye yaśás-taro yaśásāṃ kṣáitaḥ asmè | abhí svàra dhánvā pūyamāno yūyáṃ pāta svastí-bhiḥ sadā́ naḥ ||
The beloved is cleansed upon the woolly ridge; more glorious, he shines for us among the glorious. Purifying himself, he cries out with a clear call across the wide expanse; may you protect us always with states of well-being.
सम् । ऊँ॒ इति॑ । प्रि॒यः । मृ॒ज्य॒ते॒ । सानौ॑ । अव्ये॑ । य॒शःऽत॑रः । य॒शसा॑म् । क्षैतः॑ । अ॒स्मे इति॑ । अ॒भि । स्व॒र॒ । धन्व॑ । पू॒यमा॑नः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥सम् । ऊँ इति । प्रियः । मृज्यते । सानौ । अव्ये । यशःतरः । यशसाम् । क्षैतः । अस्मे इति । अभि । स्वर । धन्व । पूयमानः । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥sam | oṃ iti | priyaḥ | mṛjyate | sānau | avye | yaśaḥ-taraḥ | yaśasām | kṣaitaḥ | asme iti | abhi | svara | dhanva | pūyamānaḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ