Sukta 9.97
भद्रा वस्त्रा समन्या वसानो महान्कविर्निवचनानि शंसन् । आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर्देववीतौ ॥
भ॒द्रा वस्त्रा॑ सम॒न्या॒३॒॑ वसा॑नो म॒हान्क॒विर्नि॒वच॑नानि॒ शंस॑न् । आ व॑च्यस्व च॒म्वो॑: पू॒यमा॑नो विचक्ष॒णो जागृ॑विर्दे॒ववी॑तौ ॥
bhadrā́ vastrā samanyā́ vāsāno mahā́n kavír ni-vacanāni śáṃsan | ā́ vacyasva camvóḥ pūyamāno vi-cakṣaṇó jā́gṛvir deva-vītáu ||
Clothed in auspicious and harmonious raiment, the great seer proclaims the inward utterances. Being purified, become speakable upon the bowls; the discerning, ever-wakeful one moves in the winning of the Gods.
भ॒द्रा । वस्त्रा॑ । स॒म॒न्या॑ । वसा॑नः । म॒हान् । क॒विः । नि॒ऽवच॑नानि । शं॒स॒न् । आ । व॒च्य॒स्व॒ । च॒म्वोः॑ । पू॒यमा॑नः । वि॒ऽच॒क्ष॒णः । जागृ॑विः । दे॒वऽवी॑तौ ॥भद्रा । वस्त्रा । समन्या । वसानः । महान् । कविः । निवचनानि । शंसन् । आ । वच्यस्व । चम्वोः । पूयमानः । विचक्षणः । जागृविः । देववीतौ ॥bhadrā | vastrā | samanyā | vasānaḥ | mahān | kaviḥ | ni-vacanāni | śaṃsan | ā | vacyasva | camvoḥ | pūyamānaḥ | vi-cakṣaṇaḥ | jāgṛviḥ | deva-vītau