Sukta 9.97
अर्वाँ इव श्रवसे सातिमच्छेन्द्रस्य वायोरभि वीतिमर्ष । स नः सहस्रा बृहतीरिषो दा भवा सोम द्रविणोवित्पुनानः ॥
अर्वाँ॑ इव॒ श्रव॑से सा॒तिमच्छेन्द्र॑स्य वा॒योर॒भि वी॒तिम॑र्ष । स न॑: स॒हस्रा॑ बृह॒तीरिषो॑ दा॒ भवा॑ सोम द्रविणो॒वित्पु॑ना॒नः ॥
arvā́ṃ iva śrávase sātím ácchéndrasya vāyór abhí vītím arṣa | sá naḥ sahásrā bṛhatī́r íṣo dā bhávā soma draviṇo-vít punānā́ḥ ||
Like a swift steed for fame, flow toward the winning, toward the welcoming of Indra and Vāyu. Give us a thousand vast impulsions of increase; become for us, O Soma, the finder of the true riches, as you purify yourself.
अर्वा॑न्ऽइव । श्रव॑से । सा॒तिम् । अच्छ॑ । इन्द्र॑स्य । वा॒योः । अ॒भि । वी॒तिम् । अ॒र्ष॒ । सः । नः॒ । स॒हस्रा॑ । बृ॒ह॒तीः । इषः॑ । दाः॒ । भव॑ । सो॒म॒ । द्र॒वि॒णः॒ऽवित् । पु॒ना॒नः ॥अर्वान्इव । श्रवसे । सातिम् । अच्छ । इन्द्रस्य । वायोः । अभि । वीतिम् । अर्ष । सः । नः । सहस्रा । बृहतीः । इषः । दाः । भव । सोम । द्रविणःवित् । पुनानः ॥arvān-iva | śravase | sātim | accha | indrasya | vāyoḥ | abhi | vītim | arṣa | saḥ | naḥ | sahasrā | bṛhatīḥ | iṣaḥ | dāḥ | bhava | soma | draviṇaḥ-vit | punānaḥ