Sukta 9.97
पवित्रेभिः पवमानो नृचक्षा राजा देवानामुत मर्त्यानाम् । द्विता भुवद्रयिपती रयीणामृतं भरत्सुभृतं चार्विन्दुः ॥
प॒वित्रे॑भि॒: पव॑मानो नृ॒चक्षा॒ राजा॑ दे॒वाना॑मु॒त मर्त्या॑नाम् । द्वि॒ता भु॑वद्रयि॒पती॑ रयी॒णामृ॒तं भ॑र॒त्सुभृ॑तं॒ चार्विन्दु॑: ॥
pavitrébhíḥ pavamā́no nṛ-cákṣā rājā́ devā́nām utá mártyānām | dvitā́ bhuvad rayi-pátī rayīṇā́m ṛtáṃ bharat su-bhṛtáṃ cā́rv índuḥ ||
Purifying himself through the filters, the seer of men becomes king of the gods and of mortals. In a double way he becomes lord of plenitudes; the lovely Indu bears the well-held Truth into us.
प॒वित्रे॑भिः॒ । पव॑मानः । नृ॒ऽचक्षा॑ । राजा॑ । दे॒वाना॑म् । उ॒त । मर्त्या॑नाम् । द्वि॒ता । भु॒व॒त् । र॒यि॒ऽपतिः॑ । र॒यी॒णाम् । ऋ॒तम् । भ॒र॒त् । सुऽभृ॑तम् । चारु॑ । इन्दुः॑ ॥पवित्रेभिः । पवमानः । नृचक्षा । राजा । देवानाम् । उत । मर्त्यानाम् । द्विता । भुवत् । रयिपतिः । रयीणाम् । ऋतम् । भरत् । सुभृतम् । चारु । इन्दुः ॥pavitrebhiḥ | pavamānaḥ | nṛ-cakṣā | rājā | devānām | uta | martyānām | dvitā | bhuvat | rayi-patiḥ | rayīṇām | ṛtam | bharat | su-bhṛtam | cāru | induḥ