Sukta 9.97
प्र दानुदो दिव्यो दानुपिन्व ऋतमृताय पवते सुमेधाः । धर्मा भुवद्वृजन्यस्य राजा प्र रश्मिभिर्दशभिर्भारि भूम ॥
प्र दा॑नु॒दो दि॒व्यो दा॑नुपि॒न्व ऋ॒तमृ॒ताय॑ पवते सुमे॒धाः । ध॒र्मा भु॑वद्वृज॒न्य॑स्य॒ राजा॒ प्र र॒श्मिभि॑र्द॒शभि॑र्भारि॒ भूम॑ ॥
prá dānu-dó divyó dānu-pínva ṛtám ṛtā́ya pavate su-medhā́ḥ | dharmā́ bhuvad vṛjányasya rājā́ prá raśmíbhir daśábhir bhāri bhū́ma ||
Forward moves the divine giver and increaser of the streams; the clear-minded one flows as Truth for the Truth. He becomes the Law, the king of the active field, and goes forth with ten rays—vast in his bearing.
प्र । दा॒नु॒ऽदः । दि॒व्यः । दा॒नु॒ऽपि॒न्वः । ऋ॒तम् । ऋ॒ताय॑ । प॒व॒ते॒ । सु॒ऽमे॒धाः । ध॒र्मा । भु॒व॒त् । वृ॒ज॒न्य॑स्य । राजा॑ । प्र । रा॒स्मिऽभिः॑ । द॒शऽभिः॑ । भा॒रि॒ । भूम॑ ॥प्र । दानुदः । दिव्यः । दानुपिन्वः । ऋतम् । ऋताय । पवते । सुमेधाः । धर्मा । भुवत् । वृजन्यस्य । राजा । प्र । रास्मिभिः । दशभिः । भारि । भूम ॥pra | dānu-daḥ | divyaḥ | dānu-pinvaḥ | ṛtam | ṛtāya | pavate | su-medhāḥ | dharmā | bhuvat | vṛjanyasya | rājā | pra | rāsmi-bhiḥ | daśa-bhiḥ | bhāri | bhūma