Sukta 9.97
तक्षद्यदी मनसो वेनतो वाग्ज्येष्ठस्य वा धर्मणि क्षोरनीके । आदीमायन्वरमा वावशाना जुष्टं पतिं कलशे गाव इन्दुम् ॥
तक्ष॒द्यदी॒ मन॑सो॒ वेन॑तो॒ वाग्ज्येष्ठ॑स्य वा॒ धर्म॑णि॒ क्षोरनी॑के । आदी॑माय॒न्वर॒मा वा॑वशा॒ना जुष्टं॒ पतिं॑ क॒लशे॒ गाव॒ इन्दु॑म् ॥
tákṣad yádī manáso vénato vā́g jyéṣṭhasya vā dhármaṇi kṣór anī́ke | ā́d īm ā́yan váram ā́ vāvaśānā́ juṣṭáṃ pátiṃ kalaśé gā́va índum ||
When the Word, moved by the desiring mind, fashions him in the law of the supreme, in the shining face of the milk, then the seeking powers come to him, yearning for the boon: the rays (cows) in the vessel take the beloved lord, the Indu, into the jar.
तक्ष॑त् । यदि॑ । मन॑सः । वेन॑तः । वाक् । ज्येष्ठ॑स्य । वा॒ । धर्म॑णि । क्षोः । अनी॑के । आत् । ई॒म् । आ॒य॒न् । वर॑म् । आ । वा॒व॒शा॒नाः । जुष्ट॑म् । पति॑म् । क॒लशे॑ । गावः॑ । इन्दु॑म् ॥तक्षत् । यदि । मनसः । वेनतः । वाक् । ज्येष्ठस्य । वा । धर्मणि । क्षोः । अनीके । आत् । ईम् । आयन् । वरम् । आ । वावशानाः । जुष्टम् । पतिम् । कलशे । गावः । इन्दुम् ॥takṣat | yadi | manasaḥ | venataḥ | vāk | jyeṣṭhasya | vā | dharmaṇi | kṣoḥ | anīke | āt | īm | āyan | varam | ā | vāvaśānāḥ | juṣṭam | patim | kalaśe | gāvaḥ | indum