Sukta 9.97
अरश्मानो येऽरथा अयुक्ता अत्यासो न ससृजानास आजौ । एते शुक्रासो धन्वन्ति सोमा देवासस्ताँ उप याता पिबध्यै ॥
अ॒र॒श्मानो॒ ये॑ऽर॒था अयु॑क्ता॒ अत्या॑सो॒ न स॑सृजा॒नास॑ आ॒जौ । ए॒ते शु॒क्रासो॑ धन्वन्ति॒ सोमा॒ देवा॑स॒स्ताँ उप॑ याता॒ पिब॑ध्यै ॥
araśmā́nā ye ’rathā́ ayúktā atyā́so na sasṛjānā́sa ājāú | eté śukrā́so dhanvanti somā́ devā́sas tā́n úpa yāta píbadhyai ||
These are like chariots without reins, yoked and loosed like steeds in the contest; the bright Somās race onward. O Gods, come near to these and drink—take into you this clarified force in its victorious movement.
अ॒र॒श्मानः॑ । ये । अ॒र॒थाः । अयु॑क्ताः । अत्या॑सः । न । स॒सृ॒जा॒नासः॑ । आ॒जौ । ए॒ते । शु॒क्रासः॑ । ध॒न्व॒न्ति॒ । सोमाः॑ । देवा॑सः । तान् । उप॑ । या॒त॒ । पिब॑ध्यै ॥अरश्मानः । ये । अरथाः । अयुक्ताः । अत्यासः । न । ससृजानासः । आजौ । एते । शुक्रासः । धन्वन्ति । सोमाः । देवासः । तान् । उप । यात । पिबध्यै ॥araśmānaḥ | ye | arathāḥ | ayuktāḥ | atyāsaḥ | na | sasṛjānāsaḥ | ājau | ete | śukrāsaḥ | dhanvanti | somāḥ | devāsaḥ | tān | upa | yāta | pibadhyai