Sukta 9.94
श्रिये जातः श्रिय आ निरियाय श्रियं वयो जरितृभ्यो दधाति । श्रियं वसाना अमृतत्वमायन्भवन्ति सत्या समिथा मितद्रौ ॥
श्रि॒ये जा॒तः श्रि॒य आ निरि॑याय॒ श्रियं॒ वयो॑ जरि॒तृभ्यो॑ दधाति । श्रियं॒ वसा॑ना अमृत॒त्वमा॑य॒न्भव॑न्ति स॒त्या स॑मि॒था मि॒तद्रौ॑ ॥
śríye jātáḥ śríya ā́ nír iyāya śríyaṃ váyo jaritṛ́-bhyo dadhāti | śríyaṃ vásānā amṛtatvám ā́yan bhávanti satyā́ sam-íthā mita-drāu ||
Born for splendor, he goes forth into splendor; he gives the bird-like uplift of life-power to the singers as splendor. Clothed in splendor, arriving at immortality, they become true—kindled together in a measured steadfastness.
श्रि॒ये । जा॒तः । श्रि॒ये । आ । निः । इ॒या॒य॒ । श्रिय॑म् । वयः॑ । ज॒रि॒तृऽभ्यः॑ । द॒धा॒ति॒ । श्रिय॑म् । वसा॑नाः । अ॒मृ॒त॒ऽत्वम् । आ॒य॒न् । भव॑न्ति । स॒त्या । स॒म्ऽइ॒था । मि॒तऽद्रौ॑ ॥श्रिये । जातः । श्रिये । आ । निः । इयाय । श्रियम् । वयः । जरितृभ्यः । दधाति । श्रियम् । वसानाः । अमृतत्वम् । आयन् । भवन्ति । सत्या । सम्इथा । मितद्रौ ॥śriye | jātaḥ | śriye | ā | niḥ | iyāya | śriyam | vayaḥ | jaritṛ-bhyaḥ | dadhāti | śriyam | vasānāḥ | amṛta-tvam | āyan | bhavanti | satyā | sam-ithā | mita-drau