Sukta 9.94
इषमूर्जमभ्यर्षाश्वं गामुरु ज्योतिः कृणुहि मत्सि देवान् । विश्वानि हि सुषहा तानि तुभ्यं पवमान बाधसे सोम शत्रून् ॥
इष॒मूर्ज॑म॒भ्य१॒॑र्षाश्वं॒ गामु॒रु ज्योति॑: कृणुहि॒ मत्सि॑ दे॒वान् । विश्वा॑नि॒ हि सु॒षहा॒ तानि॒ तुभ्यं॒ पव॑मान॒ बाध॑से सोम॒ शत्रू॑न् ॥
íṣam ūŕjam abhý arṣā́śvaṃ gā́m uru jyótiḥ kṛṇuhi mátsi devā́n | víśvāni hí su-ṣáhā tā́ni túbhyaṃ pávamāna bā́dhase soma śátrūn ||
Flow toward us with food and force; bring the horse and the cow—make wide light. Delight the gods within. For you can bear all these things well; therefore, O purifying Soma, press back the adversaries (forces of obstruction and ignorance).
इष॑म् । ऊर्ज॑म् । अ॒भि । अ॒र्ष॒ । अश्व॑म् । गाम् । उ॒रु । ज्योतिः॑ । कृ॒णु॒हि॒ । मत्सि॑ । दे॒वान् । विश्वा॑नि । हि । सु॒ऽसहा॑ । तानि॑ । तुभ्य॑म् । पव॑मान । बाध॑से । सो॒म॒ । शत्रू॑न् ॥इषम् । ऊर्जम् । अभि । अर्ष । अश्वम् । गाम् । उरु । ज्योतिः । कृणुहि । मत्सि । देवान् । विश्वानि । हि । सुसहा । तानि । तुभ्यम् । पवमान । बाधसे । सोम । शत्रून् ॥iṣam | ūrjam | abhi | arṣa | aśvam | gām | uru | jyotiḥ | kṛṇuhi | matsi | devān | viśvāni | hi | su-sahā | tāni | tubhyam | pavamāna | bādhase | soma | śatrūn