Sukta 9.94
परि यत्कविः काव्या भरते शूरो न रथो भुवनानि विश्वा । देवेषु यशो मर्ताय भूषन्दक्षाय रायः पुरुभूषु नव्यः ॥
परि॒ यत्क॒विः काव्या॒ भर॑ते॒ शूरो॒ न रथो॒ भुव॑नानि॒ विश्वा॑ । दे॒वेषु॒ यशो॒ मर्ता॑य॒ भूष॒न्दक्षा॑य रा॒यः पु॑रु॒भूषु॒ नव्य॑: ॥
pári yát kavíḥ kā́vyā bhárate śū́ro ná rátho bhúvanāni víśvā | devéṣu yáśo mártāya bhū́ṣan dákṣāya rāyáḥ puru-bhū́ṣu návyaḥ ||
When the Seer bears his poetic vision all around, like a hero’s chariot traversing all the worlds, he fashions glory among the gods for the mortal; and new, manifold riches of being come for the capable power of right action (dakṣa).
परि॑ । यत् । क॒विः । काव्या॑ । भर॑ते । शूरः॑ । न । रथः॑ । भुव॑नानि । विश्वा॑ । दे॒वेषु॑ । यशः॑ । मर्ता॑य । भूष॑न् । दक्षा॑य । रा॒यः । पु॒रु॒ऽभूषु । नव्यः॑ ॥परि । यत् । कविः । काव्या । भरते । शूरः । न । रथः । भुवनानि । विश्वा । देवेषु । यशः । मर्ताय । भूषन् । दक्षाय । रायः । पुरुभूषु । नव्यः ॥pari | yat | kaviḥ | kāvyā | bharate | śūraḥ | na | rathaḥ | bhuvanāni | viśvā | deveṣu | yaśaḥ | martāya | bhūṣan | dakṣāya | rāyaḥ | puru-bhūṣu | navyaḥ