Sukta 9.93
उत प्र पिप्य ऊधरघ्न्याया इन्दुर्धाराभिः सचते सुमेधाः । मूर्धानं गावः पयसा चमूष्वभि श्रीणन्ति वसुभिर्न निक्तैः ॥
उ॒त प्र पि॑प्य॒ ऊध॒रघ्न्या॑या॒ इन्दु॒र्धारा॑भिः सचते सुमे॒धाः । मू॒र्धानं॒ गाव॒: पय॑सा च॒मूष्व॒भि श्री॑णन्ति॒ वसु॑भि॒र्न नि॒क्तैः ॥
utá prá pipyá ū́dhar aghnyā́yā índur dhā́rābhiḥ sacate su-medhā́ḥ | mūrdhā́naṃ gā́vaḥ páyasā camū́ṣv abhí śrīṇanti vásubhir ná niktáiḥ ||
And he swells the udder of the inviolate Cow; the drop, rich in right intelligence, accompanies the streams. The cows anoint his head in the bowls with milk, as with treasures freshly washed—filling him with substance and brightness.
उ॒त । प्र । पि॒प्ये॒ । ऊधः॑ । अघ्न्या॑याः । इन्दुः॑ । धारा॑भिः । स॒च॒ते॒ । सु॒ऽमे॒धाः । मू॒र्धानम् । गावः॑ । पय॑सा । च॒मूषु॑ । अ॒भि । श्री॒ण॒न्ति॒ । वसु॑ऽभिः॑ । न । नि॒क्तैः ॥उत । प्र । पिप्ये । ऊधः । अघ्न्यायाः । इन्दुः । धाराभिः । सचते । सुमेधाः । मूर्धानम् । गावः । पयसा । चमूषु । अभि । श्रीणन्ति । वसुभिः । न । निक्तैः ॥uta | pra | pipye | ūdhaḥ | aghnyāyāḥ | induḥ | dhārābhiḥ | sacate | su-medhāḥ | mūdhārnam | gāvaḥ | payasā | camūṣu | abhi | śrīṇanti | vasu-bhiḥ | na | niktaiḥ