Sukta 9.93
सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः । मर्यो न योषामभि निष्कृतं यन्त्सं गच्छते कलश उस्रियाभिः ॥
सं मा॒तृभि॒र्न शिशु॑र्वावशा॒नो वृषा॑ दधन्वे पुरु॒वारो॑ अ॒द्भिः । मर्यो॒ न योषा॑म॒भि नि॑ष्कृ॒तं यन्त्सं ग॑च्छते क॒लश॑ उ॒स्रिया॑भिः ॥
sáṃ mātṛ́bhir ná śíśur vāvaśānó vṛ́ṣā dadhanve puru-vā́ro adbhiḥ | máryo ná yóṣām abhí níṣkṛtaṃ yán sáṃ gácchate kalaśá usríyābhiḥ ||
Eager like a child with the mothers, the bull is set in motion with the waters, rich in many coverings. Like a young man toward the maiden, he goes to the prepared place; he comes together in the jar with the shining streams.
सम् । मा॒तृऽभिः॑ । न । शिशुः॑ । वा॒व॒शा॒नः । वृषा॑ । द॒ध॒न्वे॒ । पु॒रु॒ऽवारः॑ । अ॒त्ऽभिः । मर्यः॑ । न । योषा॑म् । अ॒भि । निः॒ऽकृ॒तम् । यन् । सम् । ग॒च्छ॒ते॒ । क॒लशे॑ । उ॒स्रिया॑भिः ॥सम् । मातृभिः । न । शिशुः । वावशानः । वृषा । दधन्वे । पुरुवारः । अत्भिः । मर्यः । न । योषाम् । अभि । निःकृतम् । यन् । सम् । गच्छते । कलशे । उस्रियाभिः ॥sam | mātṛ-bhiḥ | na | śiśuḥ | vāvaśānaḥ | vṛṣā | dadhanve | puru-vāraḥ | at-bhiḥ | maryaḥ | na | yoṣām | abhi | niḥ-kṛtam | yan | sam | gacchate | kalaśe | usriyābhiḥ