Sukta 9.93
साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः । हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥
सा॒क॒मुक्षो॑ मर्जयन्त॒ स्वसा॑रो॒ दश॒ धीर॑स्य धी॒तयो॒ धनु॑त्रीः । हरि॒: पर्य॑द्रव॒ज्जाः सूर्य॑स्य॒ द्रोणं॑ ननक्षे॒ अत्यो॒ न वा॒जी ॥
sākám ukṣó marjayanta svásāro dáśa dhī́rasya dhītáyo dhánutrīḥ | hárīḥ páry adravat jā́ḥ sū́ryasya dróṇaṃ nanakṣe átyo na vājī́ ||
Together the sisters polish the bull; ten bow-bearing thoughts of the steadfast one. The tawny one runs around—born of the Sun—he reaches the trough like a swift steed, a bringer of plenitude-force.
सा॒क॒म्ऽउक्षः॑ । म॒र्ज॒य॒न्त॒ । स्वसा॑रः । दश॑ । धीर॑स्य । धी॒तयः॑ । धनु॑त्रीः । हरिः॑ । परि॑ । अ॒द्र॒व॒त् । जाः । सूर्य॑स्य । द्रोण॑म् । न॒न॒क्षे॒ । अत्यः॑ । न । वा॒जी ॥साकम्उक्षः । मर्जयन्त । स्वसारः । दश । धीरस्य । धीतयः । धनुत्रीः । हरिः । परि । अद्रवत् । जाः । सूर्यस्य । द्रोणम् । ननक्षे । अत्यः । न । वाजी ॥sākam-ukṣaḥ | marjayanta | svasāraḥ | daśa | dhīrasya | dhītayaḥ | dhanutrīḥ | hariḥ | pari | adravat | jāḥ | sūryasya | droṇam | nanakṣe | atyaḥ | na | vājī