Sukta 9.92
तन्नु सत्यं पवमानस्यास्तु यत्र विश्वे कारवः संनसन्त । ज्योतिर्यदह्ने अकृणोदु लोकं प्रावन्मनुं दस्यवे करभीकम् ॥
तन्नु स॒त्यं पव॑मानस्यास्तु॒ यत्र॒ विश्वे॑ का॒रव॑: सं॒नस॑न्त । ज्योति॒र्यदह्ने॒ अकृ॑णोदु लो॒कं प्राव॒न्मनुं॒ दस्य॑वे कर॒भीक॑म् ॥
tán nu satyám pavamānasya astu yátra víśve kā́ravaḥ saṃ-násanta | jyótir yád áhne ákṛṇod u lokám prā́van mánum dásyave karabhī́kam ||
Let this indeed be the truth of the purifying Soma—where all the makers of the work come together. When he made the Light a world for the day, he protected Manu and drove the Dasyu into confinement.
तत् । नु । स॒त्यम् । पव॑मानस्य । अ॒स्तु॒ । यत्र॑ । विश्वे॑ । का॒रवः॑ । स॒म्ऽनस॑न्त । ज्योतिः॑ । यत् । अह्ने॑ । अकृ॑णोत् । ऊँ॒ इति॑ । लो॒कम् । प्र । आ॒व॒त् । मनु॑म् । दस्य॑वे । कः॒ । अ॒भीक॑म् ॥तत् । नु । सत्यम् । पवमानस्य । अस्तु । यत्र । विश्वे । कारवः । सम्नसन्त । ज्योतिः । यत् । अह्ने । अकृणोत् । ऊँ इति । लोकम् । प्र । आवत् । मनुम् । दस्यवे । कः । अभीकम् ॥tat | nu | satyam | pavamānasya | astu | yatra | viśve | kāravaḥ | sam-nasanta | jyotiḥ | yat | ahne | akṛṇot | oṃ iti | lokam | pra | āvat | manum | dasyave | kaḥ | abhīkam