Sukta 9.92
तव त्ये सोम पवमान निण्ये विश्वे देवास्त्रय एकादशासः । दश स्वधाभिरधि सानो अव्ये मृजन्ति त्वा नद्यः सप्त यह्वीः ॥
तव॒ त्ये सो॑म पवमान नि॒ण्ये विश्वे॑ दे॒वास्त्रय॑ एकाद॒शास॑: । दश॑ स्व॒धाभि॒रधि॒ सानो॒ अव्ये॑ मृ॒जन्ति॑ त्वा न॒द्य॑: स॒प्त य॒ह्वीः ॥
táva tyé soma pavamāna niṇyé víśve devā́s tráya ekādaśā́saḥ | dáśa svadhā́bhir ádhi sā́no avyé mṛjánti tvā nadyàḥ saptá yáhvīḥ ||
In your hidden depths, O Soma purifying, all the gods are at work—three and eleven; and ten with their own inherent powers. Upon the woolly ridge they cleanse you; the seven mighty rivers wash you into brightness.
तव॑ । त्ये । सो॒म॒ । प॒व॒मा॒न॒ । नि॒ण्ये । विश्वे॑ । दे॒वाः । त्रयः॑ । ए॒का॒द॒शासः॑ । दश॑ । स्व॒धाभिः॑ । अधि॑ । सानौ॑ । अव्ये॑ । मृ॒जन्ति॑ । त्वा॒ । न॒द्यः॑ । स॒प्त । य॒ह्वीः ॥तव । त्ये । सोम । पवमान । निण्ये । विश्वे । देवाः । त्रयः । एकादशासः । दश । स्वधाभिः । अधि । सानौ । अव्ये । मृजन्ति । त्वा । नद्यः । सप्त । यह्वीः ॥tava | tye | soma | pavamāna | niṇye | viśve | devāḥ | trayaḥ | ekādaśāsaḥ | daśa | svadhābhiḥ | adhi | sānau | avye | mṛjanti | tvā | nadyaḥ | sapta | yahvīḥ