Sukta 9.92
परि सद्मेव पशुमान्ति होता राजा न सत्यः समितीरियानः । सोमः पुनानः कलशाँ अयासीत्सीदन्मृगो न महिषो वनेषु ॥
परि॒ सद्मे॑व पशु॒मान्ति॒ होता॒ राजा॒ न स॒त्यः समि॑तीरिया॒नः । सोम॑: पुना॒नः क॒लशाँ॑ अयासी॒त्सीद॑न्मृ॒गो न म॑हि॒षो वने॑षु ॥
pári sádmeva paśu-mā́nti hótā rājā́ na satyáḥ sám-itīr iyānáḥ | sómaḥ punānáḥ kalaśā́m̐ ayāsīt sī́dan mṛgó na mahíṣo váneṣu ||
He moves about like a Hotṛ among the rich herds, true as a king advancing to the assemblies. Soma, purifying, has come to the jars; he settles like a wild beast, like a great buffalo in the forests—masterful, at home in his own strength.
पर् । सद्म॑ऽइव । प॒शु॒ऽमन्ति॑ । होता॑ । राजा॑ । न । स॒त्यः । सम्ऽइ॑तीः । इ॒या॒नः । सोमः॑ । पु॒ना॒नः । क॒लशा॑न् । अ॒या॒सी॒त् । सीद॑न् । मृ॒गः । न । म॒हि॒षः । वने॑षु ॥पर् । सद्मइव । पशुमन्ति । होता । राजा । न । सत्यः । सम्इतीः । इयानः । सोमः । पुनानः । कलशान् । अयासीत् । सीदन् । मृगः । न । महिषः । वनेषु ॥par | sadma-iva | paśu-manti | hotā | rājā | na | satyaḥ | sam-itīḥ | iyānaḥ | somaḥ | punānaḥ | kalaśān | ayāsīt | sīdan | mṛgaḥ | na | mahiṣaḥ | vaneṣu