Sukta 9.92
प्र सुमेधा गातुविद्विश्वदेवः सोमः पुनानः सद एति नित्यम् । भुवद्विश्वेषु काव्येषु रन्तानु जनान्यतते पञ्च धीरः ॥
प्र सु॑मे॒धा गा॑तु॒विद्वि॒श्वदे॑व॒: सोम॑: पुना॒नः सद॑ एति॒ नित्य॑म् । भुव॒द्विश्वे॑षु॒ काव्ये॑षु॒ रन्तानु॒ जना॑न्यतते॒ पञ्च॒ धीर॑: ॥
prá su-medhā́ gātu-víd viśvá-devaḥ sómaḥ punānáḥ sáda etí nítyam | bhúvad víśveṣu kā́vyeṣu rántā́nu jánān yatate páñca dhī́raḥ ||
Forward moves Soma, of good intelligence, knower of the path, belonging to all the gods; purifying, he comes always to the session. Becoming the enjoyer in all the inspired works, the steadfast one extends himself through the peoples in fivefold wise action.
प्र । सु॒ऽमे॒धाः । गा॒तु॒ऽवित् । वि॒श्वऽदे॑वः । सोमः॑ । पु॒ना॒नः । सदः॑ । ए॒ति॒ । नित्य॑म् । भुव॑त् । विश्वे॑षु । काव्ये॑षु । रन्ता॑ । अनु॑ । जना॑न् । य॒त॒ते॒ । पञ्च॑ । धीरः॑ ॥प्र । सुमेधाः । गातुवित् । विश्वदेवः । सोमः । पुनानः । सदः । एति । नित्यम् । भुवत् । विश्वेषु । काव्येषु । रन्ता । अनु । जनान् । यतते । पञ्च । धीरः ॥pra | su-medhāḥ | gātu-vit | viśva-devaḥ | somaḥ | punānaḥ | sadaḥ | eti | nityam | bhuvat | viśveṣu | kāvyeṣu | rantā | anu | janān | yatate | pañca | dhīraḥ