Sukta 9.92
अच्छा नृचक्षा असरत्पवित्रे नाम दधानः कविरस्य योनौ । सीदन्होतेव सदने चमूषूपेमग्मन्नृषयः सप्त विप्राः ॥
अच्छा॑ नृ॒चक्षा॑ असरत्प॒वित्रे॒ नाम॒ दधा॑नः क॒विर॑स्य॒ योनौ॑ । सीद॒न्होते॑व॒ सद॑ने च॒मूषूपे॑मग्म॒न्नृष॑यः स॒प्त विप्रा॑: ॥
ácchā nṛ-cákṣā ásarat pavítre nā́ma dádhānaḥ kavír asya yónau | sī́dan hótā-iva sádane camū́ṣv úpem ágmann ṛ́ṣayaḥ saptá víprāḥ ||
With clear human-seeing vision he streams toward the purifier, taking his name in the womb of the Seer. He seats himself like a priest in the session, in the bowls; and to him there come near the seven inspired sages—voices of illumined thought.
अच्छ॑ । नृ॒ऽचक्षाः॑ । अ॒स॒र॒त् । प॒वित्रे॑ । नाम॑ । दधा॑नः । क॒विः । अ॒स्य॒ । योनौ॑ । सीद॑न् । होता॑ऽइव । सद॑ने । च॒मूषु॑ । उप॑ । ई॒म् । अ॒ग्म॒न् । ऋष॑यः । स॒प्त । विप्राः॑ ॥अच्छ । नृचक्षाः । असरत् । पवित्रे । नाम । दधानः । कविः । अस्य । योनौ । सीदन् । होताइव । सदने । चमूषु । उप । ईम् । अग्मन् । ऋषयः । सप्त । विप्राः ॥accha | nṛ-cakṣāḥ | asarat | pavitre | nāma | dadhānaḥ | kaviḥ | asya | yonau | sīdan | hotā-iva | sadane | camūṣu | upa | īm | agman | ṛṣayaḥ | sapta | viprāḥ