Sukta 9.91
रुजा दृळ्हा चिद्रक्षसः सदांसि पुनान इन्द ऊर्णुहि वि वाजान् । वृश्चोपरिष्टात्तुजता वधेन ये अन्ति दूरादुपनायमेषाम् ॥
रु॒जा दृ॒ळ्हा चि॑द्र॒क्षस॒: सदां॑सि पुना॒न इ॑न्द ऊर्णुहि॒ वि वाजा॑न् । वृ॒श्चोपरि॑ष्टात्तुज॒ता व॒धेन॒ ये अन्ति॑ दू॒रादु॑पना॒यमे॑षाम् ॥
rujā́ dṛḷhā́ cid rakṣásaḥ sadā́ṃsi punānā́ índo ūrṇuhi ví vā́jān | vṛ́ścopáriṣṭāt tujatā́ vadhéna yé ánti dūrā́d upanā́yam eṣām ||
Break even the firm-set seats of the Rakshasas; O purified Indu, unfold and spread out the vājās—plenitudes of victorious force. Cut down from above with the smiting weapon those who, whether near or far, press in upon our path.
रु॒जा । दृ॒ळ्हा । चि॒त् । र॒क्षसः॑ । सदां॑सि । पु॒ना॒नः । इ॒न्दो॒ इति॑ । ऊ॒र्णु॒हि॒ । वि । वाजा॑न् । वृ॒श्च । उ॒परि॑ष्टात् । तु॒ज॒ता । व॒धेन॑ । ये । अन्ति॑ । दू॒रात् । उ॒प॒ऽना॒यम् । ए॒षा॒म् ॥रुजा । दृळ्हा । चित् । रक्षसः । सदांसि । पुनानः । इन्दो इति । ऊर्णुहि । वि । वाजान् । वृश्च । उपरिष्टात् । तुजता । वधेन । ये । अन्ति । दूरात् । उपनायम् । एषाम् ॥rujā | dṛḷhā | cit | rakṣasaḥ | sadāṃsi | punānaḥ | indo iti | ūrṇuhi | vi | vājān | vṛśca | upariṣṭāt | tujatā | vadhena | ye | anti | dūrāt | upa-nāyam | eṣām