Sukta 9.91
वीती जनस्य दिव्यस्य कव्यैरधि सुवानो नहुष्येभिरिन्दुः । प्र यो नृभिरमृतो मर्त्येभिर्मर्मृजानोऽविभिर्गोभिरद्भिः ॥
वी॒ती जन॑स्य दि॒व्यस्य॑ क॒व्यैरधि॑ सुवा॒नो न॑हु॒ष्ये॑भि॒रिन्दु॑: । प्र यो नृभि॑र॒मृतो॒ मर्त्ये॑भिर्मर्मृजा॒नोऽवि॑भि॒र्गोभि॑र॒द्भिः ॥
vītī́ jánasya divyásya kavyáir ádhi suvānó nahuṣyébhir índuḥ | prá yó nṛ́bhir amṛ́to mártyebhir marmṛjānó’vibhír góbhir adbhiḥ ||
For the enjoyment of the divine people, by the poets’ inspirations, the Soma-drop is pressed out with the Nahushya men. He advances—immortal among mortals—being cleansed and clarified by the sheep (wool), by the cows (rays), and by the waters (streams of clarity).
वी॒ती । जन॑स्य । दि॒व्यस्य॑ । क॒व्यैः । अधि॑ । सु॒वा॒नः । न॒हु॒ष्ये॑भिः । इन्दुः॑ । प्र । यः । नृऽभिः॑ । अ॒मृतः॑ । मर्त्ये॑भिः । म॒र्मृ॒जा॒नः । अवि॑ऽभिः । गोभिः॑ । अ॒त्ऽभिः ॥वीती । जनस्य । दिव्यस्य । कव्यैः । अधि । सुवानः । नहुष्येभिः । इन्दुः । प्र । यः । नृभिः । अमृतः । मर्त्येभिः । मर्मृजानः । अविभिः । गोभिः । अत्भिः ॥vītī | janasya | divyasya | kavyaiḥ | adhi | suvānaḥ | nahuṣyebhiḥ | induḥ | pra | yaḥ | nṛ-bhiḥ | amṛtaḥ | martyebhiḥ | marmṛjānaḥ | avi-bhiḥ | gobhiḥ | at-bhiḥ