Sukta 9.91
असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमो मनीषी । दश स्वसारो अधि सानो अव्येऽजन्ति वह्निं सदनान्यच्छ ॥
अस॑र्जि॒ वक्वा॒ रथ्ये॒ यथा॒जौ धि॒या म॒नोता॑ प्रथ॒मो म॑नी॒षी । दश॒ स्वसा॑रो॒ अधि॒ सानो॒ अव्येऽज॑न्ति॒ वह्निं॒ सद॑ना॒न्यच्छ॑ ॥
ásarji vakvā́ rathyè yáthājáu dhiyā́ manótā prathamó manīṣī́ | dáśa svásāro ádhi sā́nō avyé’janti váhniṃ sádānāny áccha ||
He is sent forth—strong-voiced—like a chariot in the race, by the thought that consents; the first of the seers in his discerning. The ten sisters, upon the woolly ridge, drive the carrier-fire toward the seats (of the gods), toward the right abodes.
अस॑र्जि । वक्वा॑ । रथ्ये॑ । यथा॑ । आ॒जौ । धि॒या । म॒नोता॑ । प्र॒थ॒मः । म॒नी॒षी । दश॑ । स्वसा॑रः । अधि॑ । सानौ॑ । अव्ये॑ । अज॑न्ति । वह्नि॑म् । सद॑नानि । अच्छ॑ ॥असर्जि । वक्वा । रथ्ये । यथा । आजौ । धिया । मनोता । प्रथमः । मनीषी । दश । स्वसारः । अधि । सानौ । अव्ये । अजन्ति । वह्निम् । सदनानि । अच्छ ॥asarji | vakvā | rathye | yathā | ājau | dhiyā | manotā | prathamaḥ | manīṣī | daśa | svasāraḥ | adhi | sānau | avye | ajanti | vahnim | sadanāni | accha