Sukta 9.90
शूरग्रामः सर्ववीरः सहावाञ्जेता पवस्व सनिता धनानि । तिग्मायुधः क्षिप्रधन्वा समत्स्वषाळ्हः साह्वान्पृतनासु शत्रून् ॥
शूर॑ग्राम॒: सर्व॑वीर॒: सहा॑वा॒ञ्जेता॑ पवस्व॒ सनि॑ता॒ धना॑नि । ति॒ग्मायु॑धः क्षि॒प्रध॑न्वा स॒मत्स्वषा॑ळ्हः सा॒ह्वान्पृत॑नासु॒ शत्रू॑न् ॥
śū́ra-grāmaḥ sárva-vīraḥ sahā́vān jétā pavasva sánitā dhánāni | tigmā́yudhaḥ kṣiprá-dhanvā samátsv aṣā́ḷhaḥ sā́hvān pṛ́tanāsu śátrūn ||
A host of heroes, all-heroic, mighty, a conqueror—purify thyself, O winner of riches. With sharp weapons, swift bow, unconquered, overpowering the enemies in the battles, become our victorious force.
शूर॑ऽग्रामः । सर्व॑ऽवीरः । सहा॑वान् । जेता॑ । प॒व॒स्व॒ । सनि॑ता । धना॑नि । ति॒ग्मऽआ॑यु॑धः । क्षि॒प्रऽध॑न्वा । स॒मत्ऽसु॑ । अषा॑ळ्हः । स॒ह्वान् । पृत॑नासु । शत्रू॑न् ॥शूरग्रामः । सर्ववीरः । सहावान् । जेता । पवस्व । सनिता । धनानि । तिग्मआयुधः । क्षिप्रधन्वा । समत्सु । अषाळ्हः । सह्वान् । पृतनासु । शत्रून् ॥śūra-grāmaḥ | sarva-vīraḥ | sahāvān | jetā | pavasva | sanitā | dhanāni | tigma-āyudhaḥ | kṣipra-dhanvā | samat-su | aṣāḷhaḥ | sahvān | pṛtanāsu | śatrūn