Sukta 9.90
उरुगव्यूतिरभयानि कृण्वन्त्समीचीने आ पवस्वा पुरंधी । अपः सिषासन्नुषसः स्वर्गाः सं चिक्रदो महो अस्मभ्यं वाजान् ॥
उ॒रुग॑व्यूति॒रभ॑यानि कृ॒ण्वन्त्स॑मीची॒ने आ प॑वस्वा॒ पुरं॑धी । अ॒पः सिषा॑सन्नु॒षस॒: स्व१॒॑र्गाः सं चि॑क्रदो म॒हो अ॒स्मभ्यं॒ वाजा॑न् ॥
urúgavyūtir abháyāni kṛṇván samīcīné ā́ pavasva puráṃdhī | apáḥ sisāsann uṣásaḥ svàr gā́ḥ sáṃ cikrado mahó asmábhyaṃ vā́jān ||
O Soma, flowing in a wide-ranging course, make for us the states of fearlessness; flow here into the right-turned (channels) with the power of plenitude. Desiring the Waters, desiring the Dawns, desiring the luminous Cows of the Sun-world, cry out and gather for us the great vājās—fullnesses of force and victorious energy.
उ॒रुऽग॒व्यूतिः । अभ॑यानि । कृ॒ण्वन् । स॒मी॒ची॒ने इति॑ स॒म्ऽई॒ची॒ने । आ । प॒व॒स्व॒ । पुर॑न्धी॒ इति॒ पुर॑म्ऽधी । अ॒पः । सिसा॑सन् । उ॒षसः॑ । स्वः॑ । गाः । सम् । चि॒क्र॒दः॒ । म॒हः । अ॒स्मभ्य॑म् । वाजा॑न् ॥उरुगव्यूतिः । अभयानि । कृण्वन् । समीचीने इति सम्ईचीने । आ । पवस्व । पुरन्धी इति पुरम्धी । अपः । सिसासन् । उषसः । स्वः । गाः । सम् । चिक्रदः । महः । अस्मभ्यम् । वाजान् ॥uru-gavyūtiḥ | abhayāni | kṛṇvan | samīcīne itisam-īcīne | ā | pavasva | purandhī itipuram-dhī | apaḥ | sisāsan | uṣasaḥ | svaḥ | gāḥ | sam | cikradaḥ | mahaḥ | asmabhyam | vājān